भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.039

5.039.01

यद् इन्द्र चित्र मेहनास्ति त्वादातम् अद्रिवः ।
राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर ॥

5.039.02

यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर ।
विद्याम तस्य ते वयम् अकूपारस्य दावने ॥

5.039.03

यत् ते दित्सु प्रराध्यम् मनो अस्ति श्रुतम् बृहत् ।
तेन दृळ्हा चिद् अद्रिव आ वाजं दर्षि सातये ॥

5.039.04

मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् ।
इन्द्रम् उप प्रशस्तये पूर्वीभिर् जुजुषे गिरः ॥

5.039.05

अस्मा इत् काव्यं वच उक्थम् इन्द्राय शंस्यम् ।
तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्य् अत्रयो गिरः शुम्भन्त्य् अत्रयः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc