भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.038

5.038.01

उरोष् ट इन्द्र राधसो विभ्वी रातिः शतक्रतो ।
अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥

5.038.02

यद् ईम् इन्द्र श्रवाय्यम् इषं शविष्ठ दधिषे ।
पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥

5.038.03

शुष्मासो ये ते अद्रिवो मेहना केतसापः ।
उभा देवाव् अभिष्टये दिवश् च ग्मश् च राजथः ॥

5.038.04

उतो नो अस्य कस्य चिद् दक्षस्य तव वृत्रहन् ।
अस्मभ्यं नृम्णम् आ भरास्मभ्यं नृमणस्यसे ॥

5.038.05

नू त आभिर् अभिष्टिभिस् तव शर्मञ् छतक्रतो ।
इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc