भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.037

5.037.01

सम् भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः ।
तस्मा अमृध्रा उषसो व्य् उच्छान् य इन्द्राय सुनवामेत्य् आह ॥

5.037.02

समिद्धाग्निर् वनवत् स्तीर्णबर्हिर् युक्तग्रावा सुतसोमो जराते ।
ग्रावाणो यस्येषिरं वदन्त्य् अयद् अध्वर्युर् हविषाव सिन्धुम् ॥

5.037.03

वधूर् इयम् पतिम् इच्छन्त्य् एति य ईं वहाते महिषीम् इषिराम् ।
आस्य श्रवस्याद् रथ आ च घोषात् पुरू सहस्रा परि वर्तयाते ॥

5.037.04

न स राजा व्यथते यस्मिन्न् इन्द्रस् तीव्रं सोमम् पिबति गोसखायम् ।
आ सत्वनैर् अजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥

5.037.05

पुष्यात् क्षेमे अभि योगे भवात्य् उभे वृतौ संयती सं जयाति ।
प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc