ऋग्वेद · अध्याय 5.034
अजातशत्रुम् अजरा स्वर्वत्य् अनु स्वधामिता दस्मम् ईयते ।
सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥
आ यः सोमेन जठरम् अपिप्रतामन्दत मघवा मध्वो अन्धसः ।
यद् ईम् मृगाय हन्तवे महावधः सहस्रभृष्टिम् उशना वधं यमत् ॥
यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह ।
अपाप शक्रस् ततनुष्टिम् ऊहति तनूशुभ्रम् मघवा यः कवासखः ॥
यस्यावधीत् पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते ।
वेतीद् व् अस्य प्रयता यतंकरो न किल्बिषाद् ईषते वस्व आकरः ॥
न पञ्चभिर् दशभिर् वष्ट्य् आरभं नासुन्वता सचते पुष्यता चन ।
जिनाति वेद् अमुया हन्ति वा धुनिर् आ देवयुम् भजति गोमति व्रजे ॥
वित्वक्षणः समृतौ चक्रमासजो ऽसुन्वतो विषुणः सुन्वतो वृधः ।
इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासम् आर्यः ॥
सम् ईम् पणेर् अजति भोजनम् मुषे वि दाशुषे भजति सूनरं वसु ।
दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीम् अचुक्रुधत् ॥
सं यज् जनौ सुधनौ विश्वशर्धसाव् अवेद् इन्द्रो मघवा गोषु शुभ्रिषु ।
युजं ह्य् अ1न्यम् अकृत प्रवेपन्य् उद् ईं गव्यं सृजते सत्वभिर् धुनिः ॥
सहस्रसाम् आग्निवेशिं गृणीषे शत्रिम् अग्न उपमां केतुम् अर्यः ।
तस्मा आपः संयतः पीपयन्त तस्मिन् क्षत्रम् अमवत् त्वेषम् अस्तु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0