भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.033

5.033.01

महि महे तवसे दीध्ये नॄन् इन्द्रायेत्था तवसे अतव्यान् ।
यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश् चिकेत ॥

5.033.02

स त्वं न इन्द्र धियसानो अर्कैर् हरीणां वृषन् योक्त्रम् अश्रेः ।
या इत्था मघवन्न् अनु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥

5.033.03

न ते त इन्द्राभ्य् अ1स्मद् ऋष्वायुक्तासो अब्रह्मता यद् असन् ।
तिष्ठा रथम् अधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥

5.033.04

पुरू यत् त इन्द्र सन्त्य् उक्था गवे चकर्थोर्वरासु युध्यन् ।
ततक्षे सूर्याय चिद् ओकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥

5.033.05

वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश् च रथाः ।
आस्माञ् जगम्याद् अहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥

5.033.06

पपृक्षेण्यम् इन्द्र त्वे ह्य् ओजो नृम्णानि च नृतमानो अमर्तः ।
स न एनीं वसवानो रयिं दाः प्रार्यः स्तुषे तुविमघस्य दानम् ॥

5.033.07

एवा न इन्द्रोतिभिर् अव पाहि गृणतः शूर कारून् ।
उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥

5.033.08

उत त्ये मा पौरुकुत्स्यस्य सूरेस् त्रसदस्योर् हिरणिनो रराणाः ।
वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर् नु सश्चे ॥

5.033.09

उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ ।
सहस्रा मे च्यवतानो ददान आनूकम् अर्यो वपुषे नार्चत् ॥

5.033.10

उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः ।
मह्ना रायः संवरणस्य ऋषेर् व्रजं न गावः प्रयता अपि ग्मन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc