ऋग्वेद · अध्याय 5.035
यस् ते साधिष्ठो ऽवस इन्द्र क्रतुष् टम् आ भर ।
अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥
यद् इन्द्र ते चतस्रो यच् छूर सन्ति तिस्रः ।
यद् वा पञ्च क्षितीनाम् अवस् तत् सु न आ भर ॥
आ ते ऽवो वरेण्यं वृषन्तमस्य हूमहे ।
वृषजूतिर् हि जज्ञिष आभूभिर् इन्द्र तुर्वणिः ॥
वृषा ह्य् असि राधसे जज्ञिषे वृष्णि ते शवः ।
स्वक्षत्रं ते धृषन् मनः सत्राहम् इन्द्र पौंस्यम् ॥
त्वं तम् इन्द्र मर्त्यम् अमित्रयन्तम् अद्रिवः ।
सर्वरथा शतक्रतो नि याहि शवसस् पते ॥
त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः ।
उग्रम् पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥
अस्माकम् इन्द्र दुष्टरम् पुरोयावानम् आजिषु ।
सयावानं धने-धने वाजयन्तम् अवा रथम् ॥
अस्माकम् इन्द्रेहि नो रथम् अवा पुरंध्या ।
वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमम् मनामहे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0