ऋग्वेद · अध्याय 5.029
त्र्य् अर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त ।
अर्चन्ति त्वा मरुतः पूतदक्षास् त्वम् एषाम् ऋषिर् इन्द्रासि धीरः ॥
अनु यद् ईम् मरुतो मन्दसानम् आर्चन्न् इन्द्रम् पपिवांसं सुतस्य ।
आदत्त वज्रम् अभि यद् अहिं हन्न् अपो यह्वीर् असृजत् सर्तवा उ ॥
उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः ।
तद् धि हव्यम् मनुषे गा अविन्दद् अहन्न् अहिम् पपिवाँ इन्द्रो अस्य ॥
आद् रोदसी वितरं वि ष्कभायत् संविव्यानश् चिद् भियसे मृगं कः ।
जिगर्तिम् इन्द्रो अपजर्गुराणः प्रति श्वसन्तम् अव दानवं हन् ॥
अध क्रत्वा मघवन् तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् ।
यत् सूर्यस्य हरितः पतन्तीः पुरः सतीर् उपरा एतशे कः ॥
नव यद् अस्य नवतिं च भोगान् साकं वज्रेण मघवा विवृश्चत् ।
अर्चन्तीन्द्रम् मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥
सखा सख्ये अपचत् तूयम् अग्निर् अस्य क्रत्वा महिषा त्री शतानि ।
त्री साकम् इन्द्रो मनुषः सरांसि सुतम् पिबद् वृत्रहत्याय सोमम् ॥
त्री यच् छता महिषाणाम् अघो मास् त्री सरांसि मघवा सोम्यापाः ।
कारं न विश्वे अह्वन्त देवा भरम् इन्द्राय यद् अहिं जघान ॥
उशना यत् सहस्यै3र् अयातं गृहम् इन्द्र जूजुवानेभिर् अश्वैः ।
वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर् अवनोर् ह शुष्णम् ॥
प्रान्यच् चक्रम् अवृहः सूर्यस्य कुत्सायान्यद् वरिवो यातवे ऽकः ।
अनासो दस्यूँर् अमृणो वधेन नि दुर्योण आवृणङ् मृध्रवाचः ॥
स्तोमासस् त्वा गौरिवीतेर् अवर्धन्न् अरन्धयो वैदथिनाय पिप्रुम् ।
आ त्वाम् ऋजिश्वा सख्याय चक्रे पचन् पक्तीर् अपिबः सोमम् अस्य ॥
नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य् अर्चन्त्य् अर्कैः ।
गव्यं चिद् ऊर्वम् अपिधानवन्तं तं चिन् नरः शशमाना अप व्रन् ॥
कथो नु ते परि चराणि विद्वान् वीर्या मघवन् या चकर्थ ।
या चो नु नव्या कृणवः शविष्ठ प्रेद् उ ता ते विदथेषु ब्रवाम ॥
एता विश्वा चकृवाँ इन्द्र भूर्य् अपरीतो जनुषा वीर्येण ।
या चिन् नु वज्रिन् कृणवो दधृष्वान् न ते वर्ता तविष्या अस्ति तस्याः ॥
इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म ।
वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0