ऋग्वेद · अध्याय 5.030
क्व1 स्य वीरः को अपश्यद् इन्द्रं सुखरथम् ईयमानं हरिभ्याम् ।
यो राया वज्री सुतसोमम् इच्छन् तद् ओको गन्ता पुरुहूत ऊती ॥
अवाचचक्षम् पदम् अस्य सस्वर् उग्रं निधातुर् अन्व् आयम् इच्छन् ।
अपृच्छम् अन्याँ उत ते म आहुर् इन्द्रं नरो बुबुधाना अशेम ॥
प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः ।
वेदद् अविद्वाञ् छृणवच् च विद्वान् वहते ऽयम् मघवा सर्वसेनः ॥
स्थिरम् मनश् चकृषे जात इन्द्र वेषीद् एको युधये भूयसश् चित् ।
अश्मानं चिच् छवसा दिद्युतो वि विदो गवाम् ऊर्वम् उस्रियाणाम् ॥
परो यत् त्वम् परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् ।
अतश् चिद् इन्द्राद् अभयन्त देवा विश्वा अपो अजयद् दासपत्नीः ॥
तुभ्येद् एते मरुतः सुशेवा अर्चन्त्य् अर्कं सुन्वन्त्य् अन्धः ।
अहिम् ओहानम् अप आशयानम् प्र मायाभिर् मायिनं सक्षद् इन्द्रः ॥
वि षू मृधो जनुषा दानम् इन्वन्न् अहन् गवा मघवन् संचकानः ।
अत्रा दासस्य नमुचेः शिरो यद् अवर्तयो मनवे गातुम् इच्छन् ॥
युजं हि माम् अकृथा आद् इद् इन्द्र शिरो दासस्य नमुचेर् मथायन् ।
अश्मानं चित् स्वर्य1ं वर्तमानम् प्र चक्रियेव रोदसी मरुद्भ्यः ॥
स्त्रियो हि दास आयुधानि चक्रे किम् मा करन्न् अबला अस्य सेनाः ।
अन्तर् ह्य् अख्यद् उभे अस्य धेने अथोप प्रैद् युधये दस्युम् इन्द्रः ॥
सम् अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर् वियुता यद् आसन् ।
सं ता इन्द्रो असृजद् अस्य शाकैर् यद् ईं सोमासः सुषुता अमन्दन् ॥
यद् ईं सोमा बभ्रुधूता अमन्दन्न् अरोरवीद् वृषभः सादनेषु ।
पुरंदरः पपिवाँ इन्द्रो अस्य पुनर् गवाम् अददाद् उस्रियाणाम् ॥
भद्रम् इदं रुशमा अग्ने अक्रन् गवां चत्वारि ददतः सहस्रा ।
ऋणंचयस्य प्रयता मघानि प्रत्य् अग्रभीष्म नृतमस्य नृणाम् ॥
सुपेशसम् माव सृजन्त्य् अस्तं गवां सहस्रै रुशमासो अग्ने ।
तीव्रा इन्द्रम् अममन्दुः सुतासो ऽक्तोर् व्युष्टौ परितक्म्यायाः ॥
औच्छत् सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानाम् ।
अत्यो न वाजी रघुर् अज्यमानो बभ्रुश् चत्वार्य् असनत् सहस्रा ॥
चतुःसहस्रं गव्यस्य पश्वः प्रत्य् अग्रभीष्म रुशमेष्व् अग्ने ।
घर्मश् चित् तप्तः प्रवृजे य आसीद् अयस्मयस् तम् व् आदाम विप्राः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0