भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.028

5.028.01

समिद्धो अग्निर् दिवि शोचिर् अश्रेत् प्रत्यङ्ङ् उषसम् उर्विया वि भाति ।
एति प्राची विश्ववारा नमोभिर् देवाँ ईळाना हविषा घृताची ॥

5.028.02

समिध्यमानो अमृतस्य राजसि हविष् कृण्वन्तं सचसे स्वस्तये ।
विश्वं स धत्ते द्रविणं यम् इन्वस्य् आतिथ्यम् अग्ने नि च धत्त इत् पुरः ॥

5.028.03

अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु ।
सं जास्पत्यं सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महांसि ॥

5.028.04

समिद्धस्य प्रमहसो ऽग्ने वन्दे तव श्रियम् ।
वृषभो द्युम्नवाँ असि सम् अध्वरेष्व् इध्यसे ॥

5.028.05

समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर ।
त्वं हि हव्यवाळ् असि ॥

5.028.06

आ जुहोता दुवस्यताग्निम् प्रयत्य् अध्वरे ।
वृणीध्वं हव्यवाहनम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc