भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.018

5.018.01

प्रातर् अग्निः पुरुप्रियो विशः स्तवेतातिथिः ।
विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥

5.018.02

द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना ।
इन्दुं स धत्त आनुषक् स्तोता चित् ते अमर्त्य ॥

5.018.03

तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् ।
अरिष्टो येषां रथो व्य् अश्वदावन्न् ईयते ॥

5.018.04

चित्रा वा येषु दीधितिर् आसन्न् उक्था पान्ति ये ।
स्तीर्णम् बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥

5.018.05

ये मे पञ्चाशतं ददुर् अश्वानां सधस्तुति ।
द्युमद् अग्ने महि श्रवो बृहत् कृधि मघोनां नृवद् अमृत नृणाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc