ऋग्वेद · अध्याय 5.017
आ यज्ञैर् देव मर्त्य इत्था तव्यांसम् ऊतये ।
अग्निं कृते स्वध्वरे पूरुर् ईळीतावसे ॥
अस्य हि स्वयशस्तर आसा विधर्मन् मन्यसे ।
तं नाकं चित्रशोचिषम् मन्द्रम् परो मनीषया ॥
अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा ।
दिवो न यस्य रेतसा बृहच् छोचन्त्य् अर्चयः ॥
अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ ।
अधा विश्वासु हव्यो ऽग्निर् विक्षु प्र शस्यते ॥
नू न इद् धि वार्यम् आसा सचन्त सूरयः ।
ऊर्जो नपाद् अभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0