भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.019

5.019.01

अभ्य् अवस्थाः प्र जायन्ते प्र वव्रेर् वव्रिश् चिकेत ।
उपस्थे मातुर् वि चष्टे ॥

5.019.02

जुहुरे वि चितयन्तो ऽनिमिषं नृम्णम् पान्ति ।
आ दृळ्हाम् पुरं विविशुः ॥

5.019.03

आ श्वैत्रेयस्य जन्तवो द्युमद् वर्धन्त कृष्टयः ।
निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥

5.019.04

प्रियं दुग्धं न काम्यम् अजामि जाम्योः सचा ।
घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः ॥

5.019.05

क्रीळन् नो रश्म आ भुवः सम् भस्मना वायुना वेविदानः ।
ता अस्य सन् धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc