ऋग्वेद · अध्याय 5.016
बृहद् वयो हि भानवे ऽर्चा देवायाग्नये ।
यम् मित्रं न प्रशस्तिभिर् मर्तासो दधिरे पुरः ॥
स हि द्युभिर् जनानां होता दक्षस्य बाह्वोः ।
वि हव्यम् अग्निर् आनुषग् भगो न वारम् ऋण्वति ॥
अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः ।
विश्वा यस्मिन् तुविष्वणि सम् अर्ये शुष्मम् आदधुः ॥
अधा ह्य् अग्न एषां सुवीर्यस्य मंहना ।
तम् इद् यह्वं न रोदसी परि श्रवो बभूवतुः ॥
नू न एहि वार्यम् अग्ने गृणान आ भर ।
ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0