ऋग्वेद · अध्याय 5.015
प्र वेधसे कवये वेद्याय गिरम् भरे यशसे पूर्व्याय ।
घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥
ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् ।
दिवो धर्मन् धरुणे सेदुषो नॄञ् जातैर् अजाताँ अभि ये ननक्षुः ॥
अङ्होयुवस् तन्वस् तन्वते वि वयो महद् दुष्टरम् पूर्व्याय ।
स संवतो नवजातस् तुतुर्यात् सिङ्हं न क्रुद्धम् अभितः परि ष्ठुः ॥
मातेव यद् भरसे पप्रथानो जनं-जनं धायसे चक्षसे च ।
वयो-वयो जरसे यद् दधानः परि त्मना विषुरूपो जिगासि ॥
वाजो नु ते शवसस् पात्व् अन्तम् उरुं दोघं धरुणं देव रायः ।
पदं न तायुर् गुहा दधानो महो राये चितयन्न् अत्रिम् अस्पः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0