भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.057

4.057.01

क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
गाम् अश्वम् पोषयित्न्व् आ स नो मृळातीदृशे ॥

4.057.02

क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व ।
मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृळयन्तु ॥

4.057.03

मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् ।
क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम ॥

4.057.04

शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय ॥

4.057.05

शुनासीराव् इमां वाचं जुषेथां यद् दिवि चक्रथुः पयः ।
तेनेमाम् उप सिञ्चतम् ॥

4.057.06

अर्वाची सुभगे भव सीते वन्दामहे त्वा ।
यथा नः सुभगाससि यथा नः सुफलाससि ॥

4.057.07

इन्द्रः सीतां नि गृह्णातु ताम् पूषानु यच्छतु ।
सा नः पयस्वती दुहाम् उत्तराम्-उत्तरां समाम् ॥

4.057.08

शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः ।
शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc