ऋग्वेद · अध्याय 4.058
समुद्राद् ऊर्मिर् मधुमाँ उद् आरद् उपांशुना सम् अमृतत्वम् आनट् ।
घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥
वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश ॥
त्रिधा हितम् पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् ।
इन्द्र एकं सूर्य एकं जजान वेनाद् एकं स्वधया निष् टतक्षुः ॥
एता अर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे ।
घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥
सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः ।
एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर् ईषमाणाः ॥
सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥
अभि प्रवन्त समनेव योषाः कल्याण्य1ः स्मयमानासो अग्निम् ।
घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥
कन्या इव वहतुम् एतवा उ अञ्ज्य् अञ्जाना अभि चाकशीमि ।
यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते ॥
अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥
धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अ1न्तर् आयुषि ।
अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तं त ऊर्मिम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0