भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.056

4.056.01

मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः ।
यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः ॥

4.056.02

देवी देवेभिर् यजते यजत्रैर् अमिनती तस्थतुर् उक्षमाणे ।
ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर् अर्कैः ॥

4.056.03

स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान ।
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम् ऐरत् ॥

4.056.04

नू रोदसी बृहद्भिर् नो वरूथैः पत्नीवद्भिर् इषयन्ती सजोषाः ।
उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥

4.056.05

प्र वाम् महि द्यवी अभ्य् उपस्तुतिम् भरामहे ।
शुची उप प्रशस्तये ॥

4.056.06

पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
ऊह्याथे सनाद् ऋतम् ॥

4.056.07

मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् ।
परि यज्ञं नि षेदथुः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc