ऋग्वेद · अध्याय 4.055
को वस् त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः ।
सहीयसो वरुण मित्र मर्तात् को वो ऽध्वरे वरिवो धाति देवाः ॥
प्र ये धामानि पूर्व्याण्य् अर्चान् वि यद् उच्छान् वियोतारो अमूराः ।
विधातारो वि ते दधुर् अजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥
प्र पस्त्या3म् अदितिं सिन्धुम् अर्कैः स्वस्तिम् ईळे सख्याय देवीम् ।
उभे यथा नो अहनी निपात उषासानक्ता करताम् अदब्धे ॥
व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितं गातुम् अग्निः ।
इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद् वरूथम् ॥
आ पर्वतस्य मरुताम् अवांसि देवस्य त्रातुर् अव्रि भगस्य ।
पात् पतिर् जन्याद् अंहसो नो मित्रो मित्रियाद् उत न उरुष्येत् ॥
नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः ।
समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो3 अप व्रन् ॥
देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् ।
नहि मित्रस्य वरुणस्य धासिम् अर्हामसि प्रमियं सान्व् अग्नेः ॥
अग्निर् ईशे वसव्यस्याग्निर् महः सौभगस्य ।
तान्य् अस्मभ्यं रासते ॥
उषो मघोन्य् आ वह सूनृते वार्या पुरु ।
अस्मभ्यं वाजिनीवति ॥
तत् सु नः सविता भगो वरुणो मित्रो अर्यमा ।
इन्द्रो नो राधसा गमत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0