भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.050

4.050.01

यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण ।
तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥

4.050.02

धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे ।
पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम् ॥

4.050.03

बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः ।
तुभ्यं खाता अवता अद्रिदुग्धा मध्वः श्चोतन्त्य् अभितो विरप्शम् ॥

4.050.04

बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि ॥

4.050.05

स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।
बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥

4.050.06

एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः ।
बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥

4.050.07

स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि वीर्येण ।
बृहस्पतिं यः सुभृतम् बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥

4.050.08

स इत् क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् ।
तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एति ॥

4.050.09

अप्रतीतो जयति सं धनानि प्रतिजन्यान्य् उत या सजन्या ।
अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः ॥

4.050.10

इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू ।
आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥

4.050.11

बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व् अस्मे ।
अविष्टं धियो जिगृतम् पुरंधीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc