ऋग्वेद · अध्याय 4.049
इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती ।
उक्थम् मदश् च शस्यते ॥
अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती ।
चारुर् मदाय पीतये ॥
आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गच्छतम् ।
सोमपा सोमपीतये ॥
अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् ।
अश्वावन्तं सहस्रिणम् ॥
इन्द्राबृहस्पती वयं सुते गीर्भिर् हवामहे ।
अस्य सोमस्य पीतये ॥
सोमम् इन्द्राबृहस्पती पिबतं दाशुषो गृहे ।
मादयेथां तदोकसा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0