ऋग्वेद · अध्याय 4.051
इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् ।
नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो जनाय ॥
अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु ।
व्य् ऊ व्रजस्य तमसो द्वारोच्छन्तीर् अव्रञ् छुचयः पावकाः ॥
उच्छन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः ।
अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये ॥
कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य ।
येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष ॥
यूयं हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि सद्यः ।
प्रबोधयन्तीर् उषसः ससन्तं द्विपाच् चतुष्पाच् चरथाय जीवम् ॥
क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् ।
शुभं यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः ॥
ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना ऋतजातसत्याः ।
यास्व् ईजानः शशमान उक्थैः स्तुवञ् छंसन् द्रविणं सद्य आप ॥
ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः ।
ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥
ता इन् न्व् ए3व समना समानीर् अमीतवर्णा उषसश् चरन्ति ।
गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः ॥
रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः ।
स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥
तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः ।
वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0