भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.045

4.045.01

एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि ।
पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते ॥

4.045.02

उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु ।
अपोर्णुवन्तस् तम आ परीवृतं स्व1र् ण शुक्रं तन्वन्त आ रजः ॥

4.045.03

मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने युञ्जाथां रथम् ।
आ वर्तनिम् मधुना जिन्वथस् पथो दृतिं वहेथे मधुमन्तम् अश्विना ॥

4.045.04

हंसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः ।
उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥

4.045.05

स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर् अश्विना ।
यन् निक्तहस्तस् तरणिर् विचक्षणः सोमं सुषाव मधुमन्तम् अद्रिभिः ॥

4.045.06

आकेनिपासो अहभिर् दविध्वतः स्व1र् ण शुक्रं तन्वन्त आ रजः ।
सूरश् चिद् अश्वान् युयुजान ईयते विश्वाँ अनु स्वधया चेतथस् पथः ॥

4.045.07

प्र वाम् अवोचम् अश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति ।
येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम् अच्छ ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc