ऋग्वेद · अध्याय 4.044
तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः ।
यः सूर्यां वहति वन्धुरायुर् गिर्वाहसम् पुरुतमं वसूयुम् ॥
युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् ॥
को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।
पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥
आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन ।
मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् ॥
नू नो रयिम् पुरुवीरम् बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे ।
नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीळ्हासो अग्मन् ॥
इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना ।
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0