भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.046

4.046.01

अग्रम् पिबा मधूनां सुतं वायो दिविष्टिषु ।
त्वं हि पूर्वपा असि ॥

4.046.02

शतेना नो अभिष्टिभिर् नियुत्वाँ इन्द्रसारथिः ।
वायो सुतस्य तृम्पतम् ॥

4.046.03

आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः ।
वहन्तु सोमपीतये ॥

4.046.04

रथं हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् ।
आ हि स्थाथो दिविस्पृशम् ॥

4.046.05

रथेन पृथुपाजसा दाश्वांसम् उप गच्छतम् ।
इन्द्रवायू इहा गतम् ॥

4.046.06

इन्द्रवायू अयं सुतस् तं देवेभिः सजोषसा ।
पिबतं दाशुषो गृहे ॥

4.046.07

इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् ।
इह वां सोमपीतये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc