भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.034

4.034.01

ऋभुर् विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात ।
इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिं सम् मदा अग्मता वः ॥

4.034.02

विदानासो जन्मनो वाजरत्ना उत ऋतुभिर् ऋभवो मादयध्वम् ।
सं वो मदा अग्मत सम् पुरंधिः सुवीराम् अस्मे रयिम् एरयध्वम् ॥

4.034.03

अयं वो यज्ञ ऋभवो ऽकारि यम् आ मनुष्वत् प्रदिवो दधिध्वे ।
प्र वो ऽच्छा जुजुषाणासो अस्थुर् अभूत विश्वे अग्रियोत वाजाः ॥

4.034.04

अभूद् उ वो विधते रत्नधेयम् इदा नरो दाशुषे मर्त्याय ।
पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनम् मदाय ॥

4.034.05

आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः ।
आ वः पीतयो ऽभिपित्वे अह्नाम् इमा अस्तं नवस्व इव ग्मन् ॥

4.034.06

आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः ।
सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥

4.034.07

सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः ।
अग्रेपाभिर् ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥

4.034.08

सजोषस आदित्यैर् मादयध्वं सजोषस ऋभवः पर्वतेभिः ।
सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥

4.034.09

ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर् ऋभवो ये अश्वा ।
ये अंसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥

4.034.10

ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम् पुरुक्षुम् ।
ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥

4.034.11

नापाभूत न वो ऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् ।
सम् इन्द्रेण मदथ सम् मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc