ऋग्वेद · अध्याय 4.035
इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत ।
अस्मिन् हि वः सवने रत्नधेयं गमन्त्व् इन्द्रम् अनु वो मदासः ॥
आगन्न् ऋभूणाम् इह रत्नधेयम् अभूत् सोमस्य सुषुतस्य पीतिः ।
सुकृत्यया यत् स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा ॥
व्य् अकृणोत चमसं चतुर्धा सखे वि शिक्षेत्य् अब्रवीत ।
अथैत वाजा अमृतस्य पन्थां गणं देवानाम् ऋभवः सुहस्ताः ॥
किम्मयः स्विच् चमस एष आस यं काव्येन चतुरो विचक्र ।
अथा सुनुध्वं सवनम् मदाय पात ऋभवो मधुनः सोम्यस्य ॥
शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् ।
शच्या हरी धनुतराव् अतष्टेन्द्रवाहाव् ऋभवो वाजरत्नाः ॥
यो वः सुनोत्य् अभिपित्वे अह्नां तीव्रं वाजासः सवनम् मदाय ।
तस्मै रयिम् ऋभवः सर्ववीरम् आ तक्षत वृषणो मन्दसानाः ॥
प्रातः सुतम् अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते ।
सम् ऋभुभिः पिबस्व रत्नधेभिः सखीँर् याँ इन्द्र चकृषे सुकृत्या ॥
ये देवासो अभवता सुकृत्या श्येना इवेद् अधि दिवि निषेद ।
ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥
यत् तृतीयं सवनं रत्नधेयम् अकृणुध्वं स्वपस्या सुहस्ताः ।
तद् ऋभवः परिषिक्तं व एतत् सम् मदेभिर् इन्द्रियेभिः पिबध्वम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0