भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.033

4.033.01

प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीं धेनुम् ईळे ।
ये वातजूतास् तरणिभिर् एवैः परि द्यां सद्यो अपसो बभूवुः ॥

4.033.02

यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा दंसनाभिः ।
आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन् मनायै ॥

4.033.03

पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना ।
ते वाजो विभ्वाँ ऋभुर् इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम् ॥

4.033.04

यत् संवत्सम् ऋभवो गाम् अरक्षन् यत् संवत्सम् ऋभवो मा अपिंशन् ।
यत् संवत्सम् अभरन् भासो अस्यास् ताभिः शमीभिर् अमृतत्वम् आशुः ॥

4.033.05

ज्येष्ठ आह चमसा द्वा करेति कनीयान् त्रीन् कृणवामेत्य् आह ।
कनिष्ठ आह चतुरस् करेति त्वष्ट ऋभवस् तत् पनयद् वचो वः ॥

4.033.06

सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर् एताम् ।
विभ्राजमानाँश् चमसाँ अहेवावेनत् त्वष्टा चतुरो ददृश्वान् ॥

4.033.07

द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः ।
सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न् ओषधीर् निम्नम् आपः ॥

4.033.08

रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् ।
त आ तक्षन्त्व् ऋभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥

4.033.09

अपो ह्य् एषाम् अजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः ।
वाजो देवानाम् अभवत् सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥

4.033.10

ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा ।
ते रायस् पोषं द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥

4.033.11

इदाह्नः पीतिम् उत वो मदं धुर् न ऋते श्रान्तस्य सख्याय देवाः ।
ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने दधात ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc