भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.031

4.031.01

कया नश् चित्र आ भुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥

4.031.02

कस् त्वा सत्यो मदानाम् मंहिष्ठो मत्सद् अन्धसः ।
दृळ्हा चिद् आरुजे वसु ॥

4.031.03

अभी षु णः सखीनाम् अविता जरितॄणाम् ।
शतम् भवास्य् ऊतिभिः ॥

4.031.04

अभी न आ ववृत्स्व चक्रं न वृत्तम् अर्वतः ।
नियुद्भिश् चर्षणीनाम् ॥

4.031.05

प्रवता हि क्रतूनाम् आ हा पदेव गच्छसि ।
अभक्षि सूर्ये सचा ॥

4.031.06

सं यत् त इन्द्र मन्यवः सं चक्राणि दधन्विरे ।
अध त्वे अध सूर्ये ॥

4.031.07

उत स्मा हि त्वाम् आहुर् इन् मघवानं शचीपते ।
दातारम् अविदीधयुम् ॥

4.031.08

उत स्मा सद्य इत् परि शशमानाय सुन्वते ।
पुरू चिन् मंहसे वसु ॥

4.031.09

नहि ष्मा ते शतं चन राधो वरन्त आमुरः ।
न च्यौत्नानि करिष्यतः ॥

4.031.10

अस्माँ अवन्तु ते शतम् अस्मान् सहस्रम् ऊतयः ।
अस्मान् विश्वा अभिष्टयः ॥

4.031.11

अस्माँ इहा वृणीष्व सख्याय स्वस्तये ।
महो राये दिवित्मते ॥

4.031.12

अस्माँ अविड्ढि विश्वहेन्द्र राया परीणसा ।
अस्मान् विश्वाभिर् ऊतिभिः ॥

4.031.13

अस्मभ्यं ताँ अपा वृधि व्रजाँ अस्तेव गोमतः ।
नवाभिर् इन्द्रोतिभिः ॥

4.031.14

अस्माकं धृष्णुया रथो द्युमाँ इन्द्रानपच्युतः ।
गव्युर् अश्वयुर् ईयते ॥

4.031.15

अस्माकम् उत्तमं कृधि श्रवो देवेषु सूर्य ।
वर्षिष्ठं द्याम् इवोपरि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc