ऋग्वेद · अध्याय 4.032
आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि ।
महान् महीभिर् ऊतिभिः ॥
भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ ।
चित्रं कृणोष्य् ऊतये ॥
दभ्रेभिश् चिच् छशीयांसं हंसि व्राधन्तम् ओजसा ।
सखिभिर् ये त्वे सचा ॥
वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः ।
अस्माँ-अस्माँ इद् उद् अव ॥
स नश् चित्राभिर् अद्रिवो ऽनवद्याभिर् ऊतिभिः ।
अनाधृष्टाभिर् आ गहि ॥
भूयामो षु त्वावतः सखाय इन्द्र गोमतः ।
युजो वाजाय घृष्वये ॥
त्वं ह्य् एक ईशिष इन्द्र वाजस्य गोमतः ।
स नो यन्धि महीम् इषम् ॥
न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् ।
स्तोतृभ्य इन्द्र गिर्वणः ॥
अभि त्वा गोतमा गिरानूषत प्र दावने ।
इन्द्र वाजाय घृष्वये ॥
प्र ते वोचाम वीर्या3 या मन्दसान आरुजः ।
पुरो दासीर् अभीत्य ॥
ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या ।
सुतेष्व् इन्द्र गिर्वणः ॥
अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः ।
ऐषु धा वीरवद् यशः ॥
यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् ।
तं त्वा वयं हवामहे ॥
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः ।
सोमानाम् इन्द्र सोमपाः ॥
अस्माकं त्वा मतीनाम् आ स्तोम इन्द्र यच्छतु ।
अर्वाग् आ वर्तया हरी ॥
पुरोळाशं च नो घसो जोषयासे गिरश् च नः ।
वधूयुर् इव योषणाम् ॥
सहस्रं व्यतीनां युक्तानाम् इन्द्रम् ईमहे ।
शतं सोमस्य खार्यः ॥
सहस्रा ते शता वयं गवाम् आ च्यावयामसि ।
अस्मत्रा राध एतु ते ॥
दश ते कलशानां हिरण्यानाम् अधीमहि ।
भूरिदा असि वृत्रहन् ॥
भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर ।
भूरि घेद् इन्द्र दित्ससि ॥
भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् ।
आ नो भजस्व राधसि ॥
प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् ।
माभ्यां गा अनु शिश्रथः ॥
कनीनकेव विद्रधे नवे द्रुपदे अर्भके ।
बभ्रू यामेषु शोभेते ॥
अरम् म उस्रयाम्णे ऽरम् अनुस्रयाम्णे ।
बभ्रू यामेष्व् अस्रिधा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0