ऋग्वेद · अध्याय 4.030
नकिर् इन्द्र त्वद् उत्तरो न ज्यायाँ अस्ति वृत्रहन् ।
नकिर् एवा यथा त्वम् ॥
सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः ।
सत्रा महाँ असि श्रुतः ॥
विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः ।
यद् अहा नक्तम् आतिरः ॥
यत्रोत बाधितेभ्यश् चक्रं कुत्साय युध्यते ।
मुषाय इन्द्र सूर्यम् ॥
यत्र देवाँ ऋघायतो विश्वाँ अयुध्य एक इत् ।
त्वम् इन्द्र वनूँर् अहन् ॥
यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् ।
प्रावः शचीभिर् एतशम् ॥
किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः ।
अत्राह दानुम् आतिरः ॥
एतद् घेद् उत वीर्य1म् इन्द्र चकर्थ पौंस्यम् ।
स्त्रियं यद् दुर्हणायुवं वधीर् दुहितरं दिवः ॥
दिवश् चिद् घा दुहितरम् महान् महीयमानाम् ।
उषासम् इन्द्र सम् पिणक् ॥
अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी ।
नि यत् सीं शिश्नथद् वृषा ॥
एतद् अस्या अनः शये सुसम्पिष्टं विपाश्य् आ ।
ससार सीम् परावतः ॥
उत सिन्धुं विबाल्यं वितस्थानाम् अधि क्षमि ।
परि ष्ठा इन्द्र मायया ॥
उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् ।
पुरो यद् अस्य सम्पिणक् ॥
उत दासं कौलितरम् बृहतः पर्वताद् अधि ।
अवाहन्न् इन्द्र शम्बरम् ॥
उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
अधि पञ्च प्रधीँर् इव ॥
उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः ।
उक्थेष्व् इन्द्र आभजत् ॥
उत त्या तुर्वशायदू अस्नातारा शचीपतिः ।
इन्द्रो विद्वाँ अपारयत् ॥
उत त्या सद्य आर्या सरयोर् इन्द्र पारतः ।
अर्णाचित्ररथावधीः ॥
अनु द्वा जहिता नयो ऽन्धं श्रोणं च वृत्रहन् ।
न तत् ते सुम्नम् अष्टवे ॥
शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् ।
दिवोदासाय दाशुषे ॥
अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः ।
दासानाम् इन्द्रो मायया ॥
स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः ।
यस् ता विश्वानि चिच्युषे ॥
उत नूनं यद् इन्द्रियं करिष्या इन्द्र पौंस्यम् ।
अद्या नकिष् टद् आ मिनत् ॥
वामं-वामं त आदुरे देवो ददात्व् अर्यमा ।
वामम् पूषा वामम् भगो वामं देवः करूळती ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0