भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.026

4.026.01

अहम् मनुर् अभवं सूर्यश् चाहं कक्षीवाँ ऋषिर् अस्मि विप्रः ।
अहं कुत्सम् आर्जुनेयं न्य् ऋञ्जे ऽहं कविर् उशना पश्यता मा ॥

4.026.02

अहम् भूमिम् अददाम् आर्यायाहं वृष्टिं दाशुषे मर्त्याय ।
अहम् अपो अनयं वावशाना मम देवासो अनु केतम् आयन् ॥

4.026.03

अहम् पुरो मन्दसानो व्य् ऐरं नव साकं नवतीः शम्बरस्य ।
शततमं वेश्यं सर्वताता दिवोदासम् अतिथिग्वं यद् आवम् ॥

4.026.04

प्र सु ष विभ्यो मरुतो विर् अस्तु प्र श्येनः श्येनेभ्य आशुपत्वा ।
अचक्रया यत् स्वधया सुपर्णो हव्यम् भरन् मनवे देवजुष्टम् ॥

4.026.05

भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि ।
तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥

4.026.06

ऋजीपी श्येनो ददमानो अंशुम् परावतः शकुनो मन्द्रम् मदम् ।
सोमम् भरद् दादृहाणो देवावान् दिवो अमुष्माद् उत्तराद् आदाय ॥

4.026.07

आदाय श्येनो अभरत् सोमं सहस्रं सवाँ अयुतं च साकम् ।
अत्रा पुरंधिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc