भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.025

4.025.01

को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यं जुजोष ।
को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥

4.025.02

को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः ।
क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥

4.025.03

को देवानाम् अवो अद्या वृणीते क आदित्याँ अदितिं ज्योतिर् ईट्टे ।
कस्याश्विनाव् इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥

4.025.04

तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् ।
य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् ॥

4.025.05

न तं जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म यंसत् ।
प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥

4.025.06

सुप्राव्यः प्राशुषाळ् एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः ।
नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो ऽवहन्तेद् अवाचः ॥

4.025.07

न रेवता पणिना सख्यम् इन्द्रो ऽसुन्वता सुतपाः सं गृणीते ।
आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥

4.025.08

इन्द्रम् परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम् ।
इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc