ऋग्वेद · अध्याय 4.027
गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहं देवानां जनिमानि विश्वा ।
शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर् अदीयम् ॥
न घा स माम् अप जोषं जभाराभीम् आस त्वक्षसा वीर्येण ।
ईर्मा पुरंधिर् अजहाद् अरातीर् उत वाताँ अतरच् छूशुवानः ॥
अव यच् छ्येनो अस्वनीद् अध द्योर् वि यद् यदि वात ऊहुः पुरंधिम् ।
सृजद् यद् अस्मा अव ह क्षिपज् ज्यां कृशानुर् अस्ता मनसा भुरण्यन् ॥
ऋजिप्य ईम् इन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः ।
अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद् वेः ॥
अध श्वेतं कलशं गोभिर् अक्तम् आपिप्यानम् मघवा शुक्रम् अन्धः ।
अध्वर्युभिः प्रयतम् मध्वो अग्रम् इन्द्रो मदाय प्रति धत् पिबध्यै शूरो मदाय प्रति धत् पिबध्यै ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0