भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.019

4.019.01

एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः ।
महाम् उभे रोदसी वृद्धम् ऋष्वं निर् एकम् इद् वृणते वृत्रहत्ये ॥

4.019.02

अवासृजन्त जिव्रयो न देवा भुवः सम्राळ् इन्द्र सत्ययोनिः ।
अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो विश्वधेनाः ॥

4.019.03

अतृप्णुवन्तं वियतम् अबुध्यम् अबुध्यमानं सुषुपाणम् इन्द्र ।
सप्त प्रति प्रवत आशयानम् अहिं वज्रेण वि रिणा अपर्वन् ॥

4.019.04

अक्षोदयच् छवसा क्षाम बुध्नं वार् ण वातस् तविषीभिर् इन्द्रः ।
दृळ्हान्य् औभ्नाद् उशमान ओजो ऽवाभिनत् ककुभः पर्वतानाम् ॥

4.019.05

अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम् अद्रयः ।
अतर्पयो विसृत उब्ज ऊर्मीन् त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥

4.019.06

त्वम् महीम् अवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् ।
अरमयो नमसैजद् अर्णः सुतरणाँ अकृणोर् इन्द्र सिन्धून् ॥

4.019.07

प्राग्रुवो नभन्वो3 न वक्वा ध्वस्रा अपिन्वद् युवतीर् ऋतज्ञाः ।
धन्वान्य् अज्राँ अपृणक् तृषाणाँ अधोग् इन्द्रः स्तर्यो3 दंसुपत्नीः ॥

4.019.08

पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं जघन्वाँ असृजद् वि सिन्धून् ।
परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥

4.019.09

वम्रीभिः पुत्रम् अग्रुवो अदानं निवेशनाद् धरिव आ जभर्थ ।
व्य् अ1न्धो अख्यद् अहिम् आददानो निर् भूद् उखच्छित् सम् अरन्त पर्व ॥

4.019.10

प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि ।
यथा-यथा वृष्ण्यानि स्वगूर्तापांसि राजन् नर्याविवेषीः ॥

4.019.11

नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो3 न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc