ऋग्वेद · अध्याय 4.020
आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः ।
ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥
आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च ।
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥
इमं यज्ञं त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुं नः ।
श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं जयेम ॥
उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः ।
पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः पृष्ठ्येन ॥
वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता ।
मर्यो न योषाम् अभि मन्यमानो ऽच्छा विवक्मि पुरुहूतम् इन्द्रम् ॥
गिरिर् न यः स्वतवाँ ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः ।
आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥
न यस्य वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य ।
उद्वावृषाणस् तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥
ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि गोनाम् ।
शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि भूरिम् ॥
कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः ।
पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति द्रविणं जरित्रे ॥
मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते ।
नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो3 न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0