भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.018

4.018.01

अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे ।
अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया पत्तवे कः ॥

4.018.02

नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि ।
बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ॥

4.018.03

परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि ।
त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः सुतस्य ॥

4.018.04

किं स ऋधक् कृणवद् यं सहस्रम् मासो जभार शरदश् च पूर्वीः ।
नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः ॥

4.018.05

अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा न्यृष्टम् ।
अथोद् अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज् जायमानः ॥

4.018.06

एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव संक्रोशमानाः ।
एता वि पृच्छ किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिं रुजन्ति ॥

4.018.07

किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः ।
ममैतान् पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद् वि सिन्धून् ॥

4.018.08

ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार ।
ममच् चिद् आपः शिशवे ममृड्युर् ममच् चिद् इन्द्रः सहसोद् अतिष्ठत् ॥

4.018.09

ममच् चन ते मघवन् व्यंसो निविविध्वाँ अप हनू जघान ।
अधा निविद्ध उत्तरो बभूवाञ् छिरो दासस्य सम् पिणग् वधेन ॥

4.018.10

गृष्टिः ससूव स्थविरं तवागाम् अनाधृष्यं वृषभं तुम्रम् इन्द्रम् ।
अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥

4.018.11

उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः ।
अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरं वि क्रमस्व ॥

4.018.12

कस् ते मातरं विधवाम् अचक्रच् छयुं कस् त्वाम् अजिघांसच् चरन्तम् ।
कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य ॥

4.018.13

अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् ।
अपश्यं जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc