भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.017

4.017.01

त्वम् महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रम् मंहना मन्यत द्यौः ।
त्वं वृत्रं शवसा जघन्वान् सृजः सिन्धूँर् अहिना जग्रसानान् ॥

4.017.02

तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा स्वस्य मन्योः ।
ऋघायन्त सुभ्व1ः पर्वतास आर्दन् धन्वानि सरयन्त आपः ॥

4.017.03

भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः ।
वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः ॥

4.017.04

सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो भूत् ।
य ईं जजान स्वर्यं सुवज्रम् अनपच्युतं सदसो न भूम ॥

4.017.05

य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत इन्द्रः ।
सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥

4.017.06

सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः ।
सत्राभवो वसुपतिर् वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥

4.017.07

त्वम् अध प्रथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कृष्टीः ।
त्वम् प्रति प्रवत आशयानम् अहिं वज्रेण मघवन् वि वृश्चः ॥

4.017.08

सत्राहणं दाधृषिं तुम्रम् इन्द्रम् महाम् अपारं वृषभं सुवज्रम् ।
हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥

4.017.09

अयं वृतश् चातयते समीचीर् य आजिषु मघवा शृण्व एकः ।
अयं वाजम् भरति यं सनोत्य् अस्य प्रियासः सख्ये स्याम ॥

4.017.10

अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः ।
यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृळ्हम् भयत एजद् अस्मात् ॥

4.017.11

सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह पूर्वीः ।
एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः ॥

4.017.12

कियत् स्विद् इन्द्रो अध्य् एति मातुः कियत् पितुर् जनितुर् यो जजान ।
यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूतः स्तनयद्भिर् अभ्रैः ॥

4.017.13

क्षियन्तं त्वम् अक्षियन्तं कृणोतीयर्ति रेणुम् मघवा समोहम् ।
विभञ्जनुर् अशनिमाँ इव द्यौर् उत स्तोतारम् मघवा वसौ धात् ॥

4.017.14

अयं चक्रम् इषणत् सूर्यस्य न्य् एतशं रीरमत् ससृमाणम् ।
आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥

4.017.15

असिक्न्यां यजमानो न होता ॥

4.017.16

गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ।
जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो ऽवते न कोशम् ॥

4.017.17

त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् ।
सखा पिता पितृतमः पितॄणां कर्तेम् उ लोकम् उशते वयोधाः ॥

4.017.18

सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः ।
वयं ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त इन्द्र ॥

4.017.19

स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति ।
अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः ॥

4.017.20

एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद् अनर्वा ।
त्वं राजा जनुषां धेह्य् अस्मे अधि श्रवो माहिनं यज् जरित्रे ॥

4.017.21

नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो3 न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc