ऋग्वेद · अध्याय 4.002
यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि ।
होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष ईरयध्यै ॥
इह त्वं सूनो सहसो नो अद्य जातो जाताँ उभयाँ अन्तर् अग्ने ।
दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्राँश् च ॥
अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा ।
अन्तर् ईयसे अरुषा युजानो युष्माँश् च देवान् विश आ च मर्तान् ॥
अर्यमणं वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो अश्विनोत ।
स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय ॥
गोमाँ अग्ने ऽविमाँ अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः ।
इळावाँ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥
यस् त इध्मं जभरत् सिष्विदानो मूर्धानं वा ततपते त्वाया ।
भुवस् तस्य स्वतवाँः पायुर् अग्ने विश्वस्मात् सीम् अघायत उरुष्य ॥
यस् ते भराद् अन्नियते चिद् अन्नं निशिषन् मन्द्रम् अतिथिम् उदीरत् ।
आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान् ॥
यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते हविष्मान् ।
अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम् ॥
यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् ।
न स राया शशमानो वि योषन् नैनम् अंहः परि वरद् अघायोः ॥
यस्य त्वम् अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः ।
प्रीतेद् असद् धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥
चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् ।
राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्य ॥
कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व् आयोः ।
अतस् त्वं दृश्याँ अग्न एतान् पड्भिः पश्येर् अद्भुताँ अर्य एवैः ॥
त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ ।
रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे चर्षणिप्राः ॥
अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः ।
रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य आशुषाणाः ॥
अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् ।
दिवस् पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः ।
शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥
सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः ।
शुचन्तो अग्निं ववृधन्त इन्द्रम् ऊर्वं गव्यम् परिषदन्तो अग्मन् ॥
आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य् उग्र ।
मर्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः ॥
अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः ।
अनूनम् अग्निम् पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश् चारु चक्षुः ॥
एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व ।
उच् छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0