ऋग्वेद · अध्याय 4.001
त्वां ह्य् अग्ने सदम् इत् समन्यवो देवासो देवम् अरतिं न्येरिर इति क्रत्वा न्येरिरे ।
अमर्त्यं यजत मर्त्येष्व् आ देवम् आदेवं जनत प्रचेतसं विश्वम् आदेवं जनत प्रचेतसम् ॥
स भ्रातरं वरुणम् अग्न आ ववृत्स्व देवाँ अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् ।
ऋतावानम् आदित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥
सखे सखायम् अभ्य् आ ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या ।
अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु ।
तोकाय तुजे शुशुचान शं कृध्य् अस्मभ्यं दस्म शं कृधि ॥
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळो ऽव यासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्य् अस्मत् ॥
स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥
अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा मर्त्येषु ।
शुचि घृतं न तप्तम् अघ्न्यायाः स्पार्हा देवस्य मंहनेव धेनोः ॥
त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य् अग्नेः ।
अनन्ते अन्तः परिवीत आगाच् छुचिः शुक्रो अर्यो रोरुचानः ॥
स दूतो विश्वेद् अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः ।
रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥
स चेतयन् मनुषो यज्ञबन्धुः प्र तम् मह्या रशनया नयन्ति ।
स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप ॥
स तू नो अग्निर् नयतु प्रजानन्न् अच्छा रत्नं देवभक्तं यद् अस्य ।
धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन् ॥
स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ ।
अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥
प्र शर्ध आर्त प्रथमं विपन्याँ ऋतस्य योना वृषभस्य नीळे ।
स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो ऽजनयन्त वृष्णे ॥
अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम् आशुषाणाः ।
अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो हुवानाः ॥
ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि वोचन् ।
पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः ॥
ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम् अद्रिम् ।
दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि वव्रुः ॥
ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् ।
तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः ॥
नेशत् तमो दुधितं रोचत द्यौर् उद् देव्या उषसो भानुर् अर्त ।
आ सूर्यो बृहतस् तिष्ठद् अज्राँ ऋजु मर्तेषु वृजिना च पश्यन् ॥
आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नं धारयन्त द्युभक्तम् ।
विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु ॥
अच्छा वोचेय शुशुचानम् अग्निं होतारं विश्वभरसं यजिष्ठम् ।
शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम् अंशोः ॥
विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् ।
अग्निर् देवानाम् अव आवृणानः सुमृळीको भवतु जातवेदाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0