ऋग्वेद · अध्याय 4.003
आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥
अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।
अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥
आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः ।
देवाय शस्तिम् अमृताय शंस ग्रावेव सोता मधुषुद् यम् ईळे ॥
त्वं चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित् स्वाधीः ।
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥
कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः ।
कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय ॥
कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये ।
परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने ॥
कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय हविर्दे ।
कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे बृहत्यै ॥
कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते पृच्छ्यमानः ।
प्रति ब्रवो ऽदितये तुराय साधा दिवो जातवेदश् चिकित्वान् ॥
ऋतेन ऋतं नियतम् ईळ आ गोर् आमा सचा मधुमत् पक्वम् अग्ने ।
कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥
ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमाँ अग्निः पयसा पृष्ठ्येन ।
अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर् ऊधः ॥
ऋतेनाद्रिं व्य् असन् भिदन्तः सम् अङ्गिरसो नवन्त गोभिः ।
शुनं नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते अग्नौ ॥
ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने ।
वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे दधन्युः ॥
मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः ।
मा भ्रातुर् अग्ने अनृजोर् ऋणं वेर् मा सख्युर् दक्षं रिपोर् भुजेम ॥
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः ।
प्रति ष्फुर वि रुज वीड्व् अंहो जहि रक्षो महि चिद् वावृधानम् ॥
एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् ।
उत ब्रह्माण्य् अङ्गिरो जुषस्व सं ते शस्तिर् देववाता जरेत ॥
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य् अग्ने निण्या वचांसि ।
निवचना कवये काव्यान्य् अशंसिषम् मतिभिर् विप्र उक्थैः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0