भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.060

3.060.01

इहेह वो मनसा बन्धुता नर उशिजो जग्मुर् अभि तानि वेदसा ।
याभिर् मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियम् भागम् आनश ॥

3.060.02

याभिः शचीभिश् चमसाँ अपिंशत यया धिया गाम् अरिणीत चर्मणः ।
येन हरी मनसा निरतक्षत तेन देवत्वम् ऋभवः सम् आनश ॥

3.060.03

इन्द्रस्य सख्यम् ऋभवः सम् आनशुर् मनोर् नपातो अपसो दधन्विरे ।
सौधन्वनासो अमृतत्वम् एरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥

3.060.04

इन्द्रेण याथ सरथं सुते सचाँ अथो वशानाम् भवथा सह श्रिया ।
न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥

3.060.05

इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितं सुतं सोमम् आ वृषस्वा गभस्त्योः ।
धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥

3.060.06

इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो ऽस्मिन् सवने शच्या पुरुष्टुत ।
इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानाम् मनुषश् च धर्मभिः ॥

3.060.07

इन्द्र ऋभुभिर् वाजिभिर् वाजयन्न् इह स्तोमं जरितुर् उप याहि यज्ञियम् ।
शतं केतेभिर् इषिरेभिर् आयवे सहस्रणीथो अध्वरस्य होमनि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc