ऋग्वेद · अध्याय 3.059
मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत द्याम् ।
मित्रः कृष्टीर् अनिमिषाभि चष्टे मित्राय हव्यं घृतवज् जुहोत ॥
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन ।
न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न दूरात् ॥
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्न् आ पृथिव्याः ।
आदित्यस्य व्रतम् उपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम ॥
अयम् मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।
तस्मा एतत् पन्यतमाय जुष्टम् अग्नौ मित्राय हविर् आ जुहोत ॥
मित्रस्य चर्षणीधृतो ऽवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥
अभि यो महिना दिवम् मित्रो बभूव सप्रथाः ।
अभि श्रवोभिः पृथिवीम् ॥
मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
स देवान् विश्वान् बिभर्ति ॥
मित्रो देवेष्व् आयुषु जनाय वृक्तबर्हिषे ।
इष इष्टव्रता अकः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0