ऋग्वेद · अध्याय 3.061
उषो वाजेन वाजिनि प्रचेताः स्तोमं जुषस्व गृणतो मघोनि ।
पुराणी देवि युवतिः पुरंधिर् अनु व्रतं चरसि विश्ववारे ॥
उषो देव्य् अमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती ।
आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णाम् पृथुपाजसो ये ॥
उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्य् अमृतस्य केतुः ।
समानम् अर्थं चरणीयमाना चक्रम् इव नव्यस्य् आ ववृत्स्व ॥
अव स्यूमेव चिन्वती मघोन्य् उषा याति स्वसरस्य पत्नी ।
स्व1र् जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्याः ॥
अच्छा वो देवीम् उषसं विभातीम् प्र वो भरध्वं नमसा सुवृक्तिम् ।
ऊर्ध्वम् मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे रण्वसंदृक् ॥
ऋतावरी दिवो अर्कैर् अबोध्य् आ रेवती रोदसी चित्रम् अस्थात् ।
आयतीम् अग्न उषसं विभातीं वामम् एषि द्रविणम् भिक्षमाणः ॥
ऋतस्य बुध्न उषसाम् इषण्यन् वृषा मही रोदसी आ विवेश ।
मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0