ऋग्वेद · अध्याय 3.058
धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश् चरति दक्षिणायाः ।
आ द्योतनिं वहति शुभ्रयामोषसः स्तोमो अश्विनाव् अजीगः ॥
सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव मेधाः ।
जरेथाम् अस्मद् वि पणेर् मनीषां युवोर् अवश् चकृमा यातम् अर्वाक् ॥
सुयुग्भिर् अश्वैः सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः ।
किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥
आ मन्येथाम् आ गतं कच् चिद् एवैर् विश्वे जनासो अश्विना हवन्ते ।
इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुर् उस्रो अग्रे ॥
तिरः पुरू चिद् अश्विना रजांस्य् आङ्गूषो वाम् मघवाना जनेषु ।
एह यातम् पथिभिर् देवयानैर् दस्राव् इमे वां निधयो मधूनाम् ॥
पुराणम् ओकः सख्यं शिवं वां युवोर् नरा द्रविणं जह्नाव्याम् ।
पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥
अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा युवाना ।
नासत्या तिरोअह्न्यं जुषाणा सोमम् पिबतम् अस्रिधा सुदानू ॥
अश्विना परि वाम् इषः पुरूचीर् ईयुर् गीर्भिर् यतमाना अमृध्राः ।
रथो ह वाम् ऋतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥
अश्विना मधुषुत्तमो युवाकुः सोमस् तम् पातम् आ गतं दुरोणे ।
रथो ह वाम् भूरि वर्पः करिक्रत् सुतावतो निष्कृतम् आगमिष्ठः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0