ऋग्वेद · अध्याय 3.057
प्र मे विविक्वाँ अविदन् मनीषां धेनुं चरन्तीम् प्रयुताम् अगोपाम् ।
सद्यश् चिद् या दुदुहे भूरि धासेर् इन्द्रस् तद् अग्निः पनितारो अस्याः ॥
इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे ।
विश्वे यद् अस्यां रणयन्त देवाः प्र वो ऽत्र वसवः सुम्नम् अश्याम् ॥
या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर् जानते गर्भम् अस्मिन् ।
अच्छा पुत्रं धेनवो वावशाना महश् चरन्ति बिभ्रतं वपूंषि ॥
अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा ।
इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥
या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची ।
तयेह विश्वाँ अवसे यजत्रान् आ सादय पायया चा मधूनि ॥
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा ।
ताम् अस्मभ्यम् प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0