ऋग्वेद · अध्याय 3.056
न ता मिनन्ति मायिनो न धीरा व्रता देवानाम् प्रथमा ध्रुवाणि ।
न रोदसी अद्रुहा वेद्याभिर् न पर्वता निनमे तस्थिवांसः ॥
षड् भाराँ एको अचरन् बिभर्त्य् ऋतं वर्षिष्ठम् उप गाव आगुः ।
तिस्रो महीर् उपरास् तस्थुर् अत्या गुहा द्वे निहिते दर्श्य् एका ॥
त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् ।
त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः शश्वतीनाम् ॥
अभीक आसाम् पदवीर् अबोध्य् आदित्यानाम् अह्वे चारु नाम ।
आपश् चिद् अस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि षीम् अवृञ्जन् ॥
त्री षधस्था सिन्धवस् त्रिः कवीनाम् उत त्रिमाता विदथेषु सम्राट् ।
ऋतावरीर् योषणास् तिस्रो अप्यास् त्रिर् आ दिवो विदथे पत्यमानाः ॥
त्रिर् आ दिवः सवितर् वार्याणि दिवे-दिव आ सुव त्रिर् नो अह्नः ।
त्रिधातु राय आ सुवा वसूनि भग त्रातर् धिषणे सातये धाः ॥
त्रिर् आ दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी ।
आपश् चिद् अस्य रोदसी चिद् उर्वी रत्नम् भिक्षन्त सवितुः सवाय ॥
त्रिर् उत्तमा दूणशा रोचनानि त्रयो राजन्त्य् असुरस्य वीराः ।
ऋतावान इषिरा दूळभासस् त्रिर् आ दिवो विदथे सन्तु देवाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0