ऋग्वेद · अध्याय 3.055
उषसः पूर्वा अध यद् व्यूषुर् महद् वि जज्ञे अक्षरम् पदे गोः ।
व्रता देवानाम् उप नु प्रभूषन् महद् देवानाम् असुरत्वम् एकम् ॥
मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः ।
पुराण्योः सद्मनोः केतुर् अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥
वि मे पुरुत्रा पतयन्ति कामाः शम्य् अच्छा दीद्ये पूर्व्याणि ।
समिद्धे अग्नाव् ऋतम् इद् वदेम महद् देवानाम् असुरत्वम् एकम् ॥
समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु ।
अन्या वत्सम् भरति क्षेति माता महद् देवानाम् असुरत्वम् एकम् ॥
आक्षित् पूर्वास्व् अपरा अनूरुत् सद्यो जातासु तरुणीष्व् अन्तः ।
अन्तर्वतीः सुवते अप्रवीता महद् देवानाम् असुरत्वम् एकम् ॥
शयुः परस्ताद् अध नु द्विमाताबन्धनश् चरति वत्स एकः ।
मित्रस्य ता वरुणस्य व्रतानि महद् देवानाम् असुरत्वम् एकम् ॥
द्विमाता होता विदथेषु सम्राळ् अन्व् अग्रं चरति क्षेति बुध्नः ।
प्र रण्यानि रण्यवाचो भरन्ते महद् देवानाम् असुरत्वम् एकम् ॥
शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वम् आयत् ।
अन्तर् मतिश् चरति निष्षिधं गोर् महद् देवानाम् असुरत्वम् एकम् ॥
नि वेवेति पलितो दूत आस्व् अन्तर् महाँश् चरति रोचनेन ।
वपूंषि बिभ्रद् अभि नो वि चष्टे महद् देवानाम् असुरत्वम् एकम् ॥
विष्णुर् गोपाः परमम् पाति पाथः प्रिया धामान्य् अमृता दधानः ।
अग्निष् टा विश्वा भुवनानि वेद महद् देवानाम् असुरत्वम् एकम् ॥
नाना चक्राते यम्या3 वपूंषि तयोर् अन्यद् रोचते कृष्णम् अन्यत् ।
श्यावी च यद् अरुषी च स्वसारौ महद् देवानाम् असुरत्वम् एकम् ॥
माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ।
ऋतस्य ते सदसीळे अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः ।
ऋतस्य सा पयसापिन्वतेळा महद् देवानाम् असुरत्वम् एकम् ॥
पद्या वस्ते पुरुरूपा वपूंष्य् ऊर्ध्वा तस्थौ त्र्यविं रेरिहाणा ।
ऋतस्य सद्म वि चरामि विद्वान् महद् देवानाम् असुरत्वम् एकम् ॥
पदे इव निहिते दस्मे अन्तस् तयोर् अन्यद् गुह्यम् आविर् अन्यत् ।
सध्रीचीना पथ्या3 सा विषूची महद् देवानाम् असुरत्वम् एकम् ॥
आ धेनवो धुनयन्ताम् अशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।
नव्या-नव्या युवतयो भवन्तीर् महद् देवानाम् असुरत्वम् एकम् ॥
यद् अन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि दधाति रेतः ।
स हि क्षपावान् स भगः स राजा महद् देवानाम् असुरत्वम् एकम् ॥
वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुर् अस्य देवाः ।
षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति महद् देवानाम् असुरत्वम् एकम् ॥
देवस् त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।
इमा च विश्वा भुवनान्य् अस्य महद् देवानाम् असुरत्वम् एकम् ॥
मही सम् ऐरच् चम्वा समीची उभे ते अस्य वसुना न्यृष्टे ।
शृण्वे वीरो विन्दमानो वसूनि महद् देवानाम् असुरत्वम् एकम् ॥
इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा महद् देवानाम् असुरत्वम् एकम् ॥
निष्षिध्वरीस् त ओषधीर् उतापो रयिं त इन्द्र पृथिवी बिभर्ति ।
सखायस् ते वामभाजः स्याम महद् देवानाम् असुरत्वम् एकम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0