ऋग्वेद · अध्याय 3.045
आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः ।
मा त्वा के चिन् नि यमन् विं न पाशिनो ऽति धन्वेव ताँ इहि ॥
वृत्रखादो वलंरुजः पुरां दर्मो अपाम् अजः ।
स्थाता रथस्य हर्योर् अभिस्वर इन्द्रो दृळ्हा चिद् आरुजः ॥
गम्भीराँ उदधीँर् इव क्रतुम् पुष्यसि गा इव ।
प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥
आ नस् तुजं रयिम् भरांशं न प्रतिजानते ।
वृक्षम् पक्वम् फलम् अङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥
स्वयुर् इन्द्र स्वराळ् असि स्मद्दिष्टिः स्वयशस्तरः ।
स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0