भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.046

3.046.01

युध्मस्य ते वृषभस्य स्वराज उग्रस्य यूनः स्थविरस्य घृष्वेः ।
अजूर्यतो वज्रिणो वीर्या3णीन्द्र श्रुतस्य महतो महानि ॥

3.046.02

महाँ असि महिष वृष्ण्येभिर् धनस्पृद् उग्र सहमानो अन्यान् ।
एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥

3.046.03

प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर् विश्वतो अप्रतीतः ।
प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर् महो अन्तरिक्षाद् ऋजीषी ॥

3.046.04

उरुं गभीरं जनुषाभ्य् उ1ग्रं विश्वव्यचसम् अवतम् मतीनाम् ।
इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥

3.046.05

यं सोमम् इन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस् त्वाया ।
तं ते हिन्वन्ति तम् उ ते मृजन्त्य् अध्वर्यवो वृषभ पातवा उ ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc