भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.044

3.044.01

अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
जुषाण इन्द्र हरिभिर् न आ गह्य् आ तिष्ठ हरितं रथम् ॥

3.044.02

हर्यन्न् उषसम् अर्चयः सूर्यं हर्यन्न् अरोचयः ।
विद्वाँश् चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥

3.044.03

द्याम् इन्द्रो हरिधायसम् पृथिवीं हरिवर्पसम् ।
अधारयद् धरितोर् भूरि भोजनं ययोर् अन्तर् हरिश् चरत् ॥

3.044.04

जज्ञानो हरितो वृषा विश्वम् आ भाति रोचनम् ।
हर्यश्वो हरितं धत्त आयुधम् आ वज्रम् बाह्वोर् हरिम् ॥

3.044.05

इन्द्रो हर्यन्तम् अर्जुनं वज्रं शुक्रैर् अभीवृतम् ।
अपावृणोद् धरिभिर् अद्रिभिः सुतम् उद् गा हरिभिर् आजत ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc